वांछित मन्त्र चुनें

बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् । अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥

अंग्रेज़ी लिप्यंतरण

bībhatsūnāṁ sayujaṁ haṁsam āhur apāṁ divyānāṁ sakhye carantam | anuṣṭubham anu carcūryamāṇam indraṁ ni cikyuḥ kavayo manīṣā ||

पद पाठ

बी॒भ॒त्सूना॑म् । स॒ऽयुज॑म् । हं॒सम् । आ॒हुः॒ । अ॒पाम् । दि॒व्याना॑म् । स॒ख्ये । चर॑न्तम् । अ॒नु॒ऽस्तुभ॑म् । अनु॑ । च॒र्चू॒र्यमा॑णम् । इन्द्र॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । म॒नी॒षा ॥ १०.१२४.९

ऋग्वेद » मण्डल:10» सूक्त:124» मन्त्र:9 | अष्टक:8» अध्याय:7» वर्ग:10» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बीभत्सूनाम्) पाप से भय करनेवाली (दिव्यानाम्) मोक्षविषयक (अपाम्) कामनाओं-भावनाओं के (हंसम्) सहयोगी उन्हें प्राप्त होनेवाले (सख्यं चरन्तम् आहुः) मित्रता सेवन करते हुए को कहते हैं (अनुष्टुभम्-अनु) स्तुति के अनुरूप (चर्चूर्यमाणम्) सर्वत्र बहुत विचरते हुए विभु गतिवाले (इन्द्रम्) परमात्मा को (कवयः) मेधावी स्तुतिकर्ता जन (मनीषा) प्रज्ञा से स्तुति से (नि चिक्युः) जानते हैं-अनुभव करते हैं ॥९॥
भावार्थभाषाः - पाप से भय करनेवाली मोक्षविषयक कामनाओं-भावनाओं का साथ देनेवाला मित्रता करनेवाला अपनानेवाला परमात्मा है, स्तुतिकर्ता मेधावी जन स्तुति से जानते अनुभव करते हैं ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बीभत्सूनां दिव्यानाम्-अपाम्) पापाद् भयं कुर्वतां मोक्षसम्बन्धिनां कामानां सहयोगिनं तान् प्रति गन्तारम् “हन हिंसागत्योः” [अदादि०] सख्यं च “आपो वै सर्वे कामाः” [श० १०।५।४।१५] (सख्यं चरन्तम्-आहुः) मित्रभावं चरन्तं कथयन्ति (अनुष्टुभम् अनु) स्तुतिवाचमनु “अनुष्टुभ् वाङ्नाम” [निघ० १।११] (चर्चूर्यमाणम्-इन्द्रम्) सर्वत्र भृशं चरन्तं विभुगतिं कुर्वन्तं परमात्मानन्दं (कवयः-मनीषा) मेधाविनः स्तोतारः प्रज्ञया स्तुत्या वा तं (नि चिक्युः) जानन्ति-अनुभवन्ति ॥९॥